मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४१, ऋक् ६

संहिता

त्वं नो॑ अग्ने अ॒ग्निभि॒र्ब्रह्म॑ य॒ज्ञं च॑ वर्धय ।
त्वं नो॑ दे॒वता॑तये रा॒यो दाना॑य चोदय ॥

पदपाठः

त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ग्निऽभिः॑ । ब्रह्म॑ । य॒ज्ञम् । च॒ । व॒र्ध॒य॒ ।
त्वम् । नः॒ । दे॒वऽता॑तये । रा॒यः । दाना॑य । चो॒द॒य॒ ॥

सायणभाष्यम्

हे अग्ने त्वमग्निभिस्त्वद्विभूतिभूतैरन्यैरग्निभिः सार्धं नोऽस्माकं ब्रह्मस्तोत्रं यज्ञं च वर्धय। तथा त्वं नोऽस्माकं देवतातये। यज्ञनामैतत्। यागार्थं रायो धनस्य दानाय प्रदानाय चोदय। दातॄन्प्रेरय॥६॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९