मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४२, ऋक् २

संहिता

प्र॒वत्ते॑ अग्ने॒ जनि॑मा पितूय॒तः सा॒चीव॒ विश्वा॒ भुव॑ना॒ न्यृ॑ञ्जसे ।
प्र सप्त॑य॒ः प्र स॑निषन्त नो॒ धियः॑ पु॒रश्च॑रन्ति पशु॒पा इ॑व॒ त्मना॑ ॥

पदपाठः

प्र॒ऽवत् । ते॒ । अ॒ग्ने॒ । जनि॑म । पि॒तु॒ऽय॒तः । सा॒चीऽइ॑व । विश्वा॑ । भुव॑ना । नि । ऋ॒ञ्ज॒से॒ ।
प्र । सप्त॑यः । प्र । स॒नि॒ष॒न्त॒ । नः॒ । धियः॑ । पु॒रः । च॒र॒न्ति॒ । प॒शु॒पाःऽइ॑व । त्मना॑ ॥

सायणभाष्यम्

हे अग्ने पितूयतः पितुमन्नं भक्ष्यमिच्छतस्ते तव जनिम जन्म प्रामर्भावं प्रवत्प्रकृष्टमुत्क्रुष्टं भवति। उपसर्गाच्छन्दसि धात्वर्थ इति वतिः। स त्वं साचीव सचिव इव विश्वा विश्वानि व्याप्तानि भुवनानि भूतजातानि न्यृञ्जसे। ष्रसाधयसि। वशीकरोषीत्यर्थः। सप्तयः सर्पणशीला नोऽस्माकं धियह् स्तुतयस्तादृशं त्वां प्र सनिषन्त। प्रकर्षेण सम्भजन्ते। एकः प्रशब्दः पूरकः। यद्वा। सप्तयः। लुप्तोपममेतत्। सर्पणशीला अश्वा यथाजं प्रकर्षेण सम्भजन्ते तथास्मदीया धिय इत्यर्थः। अनन्तरं पुरस्तव पुरस्तात् त्मनात्मना स्वयमेव चरन्ति। व्याप्य वर्तन्ते। पशुपा इव। यथा पशूनां पालका गोपालाः पालयितव्यानां पुरस्तात्सञ्चरन्ति तद्वत्॥२॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०