मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४२, ऋक् ४

संहिता

यदु॒द्वतो॑ नि॒वतो॒ यासि॒ बप्स॒त्पृथ॑गेषि प्रग॒र्धिनी॑व॒ सेना॑ ।
य॒दा ते॒ वातो॑ अनु॒वाति॑ शो॒चिर्वप्ते॑व॒ श्मश्रु॑ वपसि॒ प्र भूम॑ ॥

पदपाठः

यत् । उ॒त्ऽवतः॑ । नि॒ऽवतः॑ । यासि॑ । बप्स॑त् । पृथ॑क् । ए॒षि॒ । प्र॒ग॒र्धिनी॑ऽइव । सेना॑ ।
य॒दा । ते॒ । वातः॑ । अ॒नु॒ऽवाति॑ । शो॒चिः । वप्ता॑ऽइव । श्मश्रु॑ । व॒प॒सि॒ । प्र । भूम॑ ॥

सायणभाष्यम्

यद्यदोद्वत उद्गतानुच्छ्रितान् निवतो नीचिनांस्तरुगुल्मादीन् हे अग्ने बप्सद्दहन्यासि प्राप्नोषि तदानीं बह्वीभिर्ज्वालाभिः पृथग्विभिन्नः सन्नेषि। गच्छसि। तत्र दृष्टान्तः। प्रगर्धिनीव सेना। गृधु अभिकाङ्क्षायाम्। परराष्ट्रं गच्छतो राज्ञह् सेना तत्रत्यं धनजातमभिकाङ्क्षमाणेतस्ततः सङ्घशो गच्छाति तद्वत्। वातो वायुश्च ते तव शोचिः दीप्तिं यदा यस्मिन्कालेऽनुवाति अनुगुनं प्रवर्तते तदाश्मश्रु। श्म शरीरम्। तत्र श्रितं स्थितं केशरोमादिकं वस्तेव यथा वप्ता नापितो वपति मुण्डयति तथा भूम भूमिं प्र वपसि। प्रकर्षेण मुण्डयसि। सर्वं वनं निःशेषेण दहसीत्यर्थः॥४॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०