मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४२, ऋक् ८

संहिता

आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहन्तु पु॒ष्पिणी॑ः ।
ह्र॒दाश्च॑ पु॒ण्डरी॑काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ॥

पदपाठः

आ॒ऽअय॑ने । ते॒ । प॒रा॒ऽअय॑ने । दूर्वाः॑ । रो॒ह॒न्तु॒ । पु॒ष्पिणीः॑ ।
ह्र॒दाः । च॒ । पु॒ण्डरी॑काणि । स॒मु॒द्रस्य॑ । गृ॒हाः । इ॒मे ॥

सायणभाष्यम्

अनयापि स्वनिवासस्य दाहानर्हता प्रतिपाद्यते। हे अग्ने ते तवायन आगमने पारायने परागमने वा सत्यस्यां निवासभूमौ पुष्पिणीः पुष्पवत्यो दूर्वा रोहन्तु। प्ररोहन्तु। तथा ह्रदा अशोष्योदका जलाशयाश्च भवन्तु। पुण्डरीकाणि पद्मानि च तेषु ह्रदेषु जायन्ताम्। किं बहुना। समुद्रस्य जलधेरिमेऽस्मिन्निवासप्रदेशे गृहा आश्रयभूता भवन्तु। यथा समुद्रावासभूमिः कदाचिदपि न दह्यते एवं कदाचिदप्यस्मत्स्थानं न दह्यतामित्यर्थः। एतदुक्तं भवति। दूर्वाकाण्डप्ररोहणप्रार्थनेन स्वाश्रयस्य शीतलत्वं ह्रदप्रार्थनेन तृष्णोपशमनकारणस्य जलस्य सत्त्वम् पुण्डरिकसद्भावप्रार्थनेनोपभोग्यस्य फलादेः सत्ता समुद्रग्रुहत्वप्रार्थनेन दाहानार्हता चेत्येतत्सर्वं प्रतिपाद्यत इति॥८॥

वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन्। पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्री वीरबुक्कभुपाल साम्राज्य धुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थ प्रकाशे ऋक्संहिताभाष्ये

अष्टमाष्टके सप्तमोऽध्यायः समाप्तः॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०