त्यं चि॒दश्वं॒ न वा॒जिन॑मरे॒णवो॒ यमत्न॑त ।
दृ॒ळ्हं ग्र॒न्थिं न वि ष्य॑त॒मत्रिं॒ यवि॑ष्ठ॒मा रजः॑ ॥
त्यम् । चि॒त् । अश्व॑म् । न । वा॒जिन॑म् । अ॒रे॒णवः॑ । यम् । अत्न॑त ।
दृ॒ळ्हम् । ग्र॒न्थिम् । न । वि । स्य॒त॒म् । अत्रि॑म् । यवि॑ष्ठम् । आ । रजः॑ ॥
अरेणवोहिंस्यमानाः प्रबला असुरा वाजिनं वेगवन्तमश्वं नाश्वमिव यमत्रिमत्नत अतन्वत बद्धमकृषत। तनोतेर्लुङि तनिपत्योश्चन्दसीत्युपधालोपः। त्यं चित्तं चात्रिं यविष्ठं युवतमं स्तुतेर्मिश्रयितृतमं वा रजः। रजन्त्यस्मिञ्जना इति रजो भूलोकः। रज इमं लोकमाभि हे अश्विनौ वि ष्यतम्। व्यमुञ्चतम्। दृढ्त्ं स्थिरतरं ग्रन्थिं न ग्रन्थिमिव। यथा कश्चित्तादृशं ग्रन्थिमयत्नेन विमुञ्चति तथा युवां तमृषिमसुरकृताद्बन्धनान्मोचितवन्तावित्यर्थः। स्यतमिति षोऽन्तकर्मणीत्यस्माल्लङ् स्यन्योतः श्यनीत्योकारलोपे रूपम्। छान्दसोऽडभावः। यद्वा। अत्रिं मां बन्दाद्वि ष्यतं विमुञ्चतमित्युषिरसुरैर्बद्धः सन्नश्विनौ प्रार्थयते॥२॥