मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४३, ऋक् ५

संहिता

यु॒वं भु॒ज्युं स॑मु॒द्र आ रज॑सः पा॒र ई॑ङ्खि॒तम् ।
या॒तमच्छा॑ पत॒त्रिभि॒र्नास॑त्या सा॒तये॑ कृतम् ॥

पदपाठः

यु॒वम् । भु॒ज्युम् । स॒मु॒द्रे । आ । रज॑सः । पा॒रे । ई॒ङ्खि॒तम् ।
या॒तम् । अच्छ॑ । प॒त॒त्रिऽभिः॑ । नास॑त्या । सा॒तये॑ । कृ॒त॒म् ॥

सायणभाष्यम्

हे अश्विनौ युवं युवां समुद्र उदधौ निमग्नं रजस उदकस्य पारे प्रान्ते तरङ्गसमूह ईंखितं डोलायितं एवंभूतम् भुज्युं तुग्रपुत्रमच्छाभि पतत्रिभिः पक्षोपेतैर्नार्विशेषैः सहा यातम्। आगतवन्तौ स्थः। आगत्य च हे नासत्या सत्यस्य नेतारौ सत्यस्वभावौ वा हे अश्विनौ सातये युवयोः सम्भजनाय समर्थं कृतम्। पुनर्युवानं कुरुतम्। करोतेर्लङि छान्दसो विकरनस्य लुक्। अडभावश्च॥५॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः