इ॒मां ख॑ना॒म्योष॑धिं वी॒रुधं॒ बल॑वत्तमाम् ।
यया॑ स॒पत्नीं॒ बाध॑ते॒ यया॑ संवि॒न्दते॒ पति॑म् ॥
इ॒माम् । ख॒ना॒मि॒ । ओष॑धिम् । वी॒रुध॑म् । बल॑वत्ऽतमाम् ।
यया॑ । स॒ऽपत्नी॑म् । बाध॑ते । यया॑ । स॒म्ऽवि॒न्दते॑ । पति॑म् ॥
इमामिति षडृचं सप्तदशं सूक्तमिन्द्राण्या आर्षम्। षष्ठी पङ्क्तिः शिष्टा अनुष्टुभः। अनेन सूक्तेन सपत्न्या बाधनं प्रतिपाद्यते। अत एव सूक्तजपादिना सपत्न्याविनाशो भवति। अतस्तद्देवताकमिदम्। तथा चानुक्रान्तम्। इमामिन्द्राण्युपनिषत्सपत्नीबाधनमानुष्टुभं तु पङ्क्त्यन्तमिति। अस्य सूक्तस्य विनियोगो भगवतापस्तम्बेन कस्मिंश्चित्सपत्नीघ्नप्रयोगविशेशे दर्शितः। त्रिः सप्तैर्यवैः पाठां परिकिरति यदि वारुण्यसि वरुणात्त्वा निष्क्रीणामि यदि स्ॐयसि सोमात्त्वा निष्क्रीणामीति। श्वोभूत उत्तरयोत्थाप्योत्तराभिस्तिसृभिरभिमन्त्र्योत्तरया प्रतिच्छन्नाम् हस्तयोराबध्य शय्याकाले बाहुभ्याम् भर्तारं परिगृह्णीयादुपधानलिङ्गया। वश्यो भवति। सपत्नीबाधनं च। आप. गृ. ९-५- ... ८। इति। अयमर्थः। आद्यया पाठा नामौषधिः खातव्या। ततस्तिसृभिरोषधेरभिमन्त्रनम् । षष्ठ्याबद्धा सौषधिर्यथा भर्तारं स्पृशति तथा तस्य भर्तुरालिङ्गनमिति॥
इमामोषधिं पाठाख्यां वीरुधं लतारूपां बलवत्तमां स्वकार्यकरणेऽतिशयेन बलवतीं खनामि। उन्मूलयामि। ययौशध्या सपत्नीम् । समान एकः पतिर्यस्याः सा सपत्नी। तामेषा वधूर्बाधते हिनस्ति। यया च पतिं भर्तारं संविन्दते सम्युगसधारण्येन लभते॥१॥