मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४५, ऋक् २

संहिता

उत्ता॑नपर्णे॒ सुभ॑गे॒ देव॑जूते॒ सह॑स्वति ।
स॒पत्नीं॑ मे॒ परा॑ धम॒ पतिं॑ मे॒ केव॑लं कुरु ॥

पदपाठः

उत्ता॑नऽपर्णे । सुऽभ॑गे । देव॑ऽजूते । सह॑स्वति ।
स॒ऽपत्नी॑म् । मे॒ । परा॑ । ध॒म॒ । पति॑म् । मे॒ । केव॑लम् । कु॒रु॒ ॥

सायणभाष्यम्

हे उत्तानपर्णे। उत्तानान्युर्ध्वमुखानि पर्णानि पत्राणि यस्याः तादृशि हे सुभगे सौभाग्यहेतुभुते हे देवजूते देवेन स्रष्ट्रा प्रेरिते हे सहस्वत्यभिभवनवति ईदृशे हे पाठे मे मम सपत्नीं स्त्रियं परा धम। परागमय। धमतिर्गतिकर्मा। पतिं च मे ममैव केवलमसाधारनम् कुरु॥२॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः