मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४५, ऋक् ४

संहिता

न॒ह्य॑स्या॒ नाम॑ गृ॒भ्णामि॒ नो अ॒स्मिन्र॑मते॒ जने॑ ।
परा॑मे॒व प॑रा॒वतं॑ स॒पत्नीं॑ गमयामसि ॥

पदपाठः

न॒हि । अ॒स्याः॒ । नाम॑ । गृ॒भ्णामि॑ । नो इति॑ । अ॒स्मिन् । र॒म॒ते॒ । जने॑ ।
परा॑म् । ए॒व । प॒रा॒ऽवत॑म् । स॒ऽपत्नी॑म् । ग॒म॒या॒म॒सि॒ ॥

सायणभाष्यम्

अस्याः सपत्न्या नाम संज्ञामपि नहि गृभ्णामि। नैव गृह्णामि। उच्चारयामि। नो खलु काचिदस्मिञ्जने सपत्न्याख्ये रमते। क्रीडति। अपि च ताम् सपत्नीं परां परावतमेवातिशयेन दूरदेशमेव गमयामसि। प्रापयामः। अतिशयेन भर्त्रा वियोजयाम इत्यर्थः॥४॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः