मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४५, ऋक् ६

संहिता

उप॑ तेऽधां॒ सह॑मानाम॒भि त्वा॑धां॒ सही॑यसा ।
मामनु॒ प्र ते॒ मनो॑ व॒त्सं गौरि॑व धावतु प॒था वारि॑व धावतु ॥

पदपाठः

उप॑ । ते॒ । अ॒धा॒म् । सह॑मानाम् । अ॒भि । त्वा॒ । अ॒धा॒म् । सही॑यसा ।
माम् । अनु॑ । प्र । ते॒ । मनः॑ । व॒त्सम् । गौःऽइ॑व । धा॒व॒तु॒ । प॒था । वाःऽइ॑व । धा॒व॒तु॒ ॥

सायणभाष्यम्

हे पते ते तव सममानां सपत्न्या अभिभवित्रीमिमामोषधिमुपाधाम्। शिरस उपाधानं करोमि। सहीयसाभिभवितृतरेण तेनोपधानेन त्वामभ्यधाम्। अभितोधारयामि। ते तव भर्तुर्मनो मामनुलक्ष्य प्र धावतु। प्रकर्षेण शीघ्रं गच्छतु। तत्र निदर्शनद्वयमुच्यते। गौरिव यथा गौर्वत्सं शीघ्रं गच्छति पथा निम्नेन मार्गेण वारिव वारुदकं यथा स्वभावतो गच्छति तद्वत्। अनेन निदर्शनद्वयेनौत्सुक्यातिशयः स्वाभाविकत्वं च प्रतिपाद्यते॥६॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः