मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४६, ऋक् ६

संहिता

आञ्ज॑नगन्धिं सुर॒भिं ब॑ह्व॒न्नामकृ॑षीवलाम् ।
प्राहं मृ॒गाणां॑ मा॒तर॑मरण्या॒निम॑शंसिषम् ॥

पदपाठः

आञ्ज॑नऽगन्धिम् । सु॒र॒भिम् । ब॒हु॒ऽअ॒न्नाम् । अकृ॑षिऽवलाम् ।
प्र । अ॒हम् । मृ॒गाणा॑म् । मा॒तर॑म् । अ॒र॒ण्या॒निम् । अ॒शं॒सि॒ष॒म् ॥

सायणभाष्यम्

आञ्जनगन्धिम्। अञ्जनस्येदमाञ्जनं कस्तूर्यादि। तस्य गन्ध इव गन्धो यस्यास्तादृशी। उपमानाच्च। पा. ५-४-१२७। इति गन्धस्येदन्तादेशः। अत एव सुरभिं सौरभ्य्पोएतां बह्वन्नां बहुभिरन्नैरदनीयैः फलमूलादिभिरुपेतामकृषीवलाम्। क्रुषिरेषामस्तीति क्रुषीवलाः कर्षकाः। रजः क्रुषीत्यादिना। पा. ५-२-११२। वलच्। वले। पा. ६-३-११८। इति दिर्घः। तैर्वियुक्तां तादृशीं मृगाणां मातरं जनयित्रीमरण्यानिमरण्यानीमहं प्राशंसिषम्। उक्तेन प्रकारेण स्तुतवानस्मि॥६॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः