मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४७, ऋक् १

संहिता

श्रत्ते॑ दधामि प्रथ॒माय॑ म॒न्यवेऽह॒न्यद्वृ॒त्रं नर्यं॑ वि॒वेर॒पः ।
उ॒भे यत्त्वा॒ भव॑तो॒ रोद॑सी॒ अनु॒ रेज॑ते॒ शुष्मा॑त्पृथि॒वी चि॑दद्रिवः ॥

पदपाठः

श्रत् । ते॒ । द॒धा॒मि॒ । प्र॒थ॒माय॑ । म॒न्यवे॑ । अह॑न् । यत् । वृ॒त्रम् । नर्य॑म् । वि॒वेः । अ॒पः ।
उ॒भे इति॑ । यत् । त्वा॒ । भव॑तः । रोद॑सी॒ इति॑ । अनु॑ । रेज॑ते । शुष्मा॑त् । पृ॒थि॒वी । चि॒त् । अ॒द्रि॒ऽवः॒ ॥

सायणभाष्यम्

श्रत्त इति पञ्चर्चमेकोनविंशं सूक्तं शिरीषपुत्रस्य सुवेदस आर्षं पञ्चमी त्रिष्टुप् शिष्टा जगत्यः। इन्द्रो देवता। अनुक्रम्यते हि। श्रत्ते पञ्च सुवेदाः शैरीषिस्त्रिष्टुबन्तमिति। तृतीये रात्रिपर्याये प्रशास्तुः शस्त्र इदम् सूक्तम्। सूत्रितं च। श्रत्ते दधामीदम् त्यत्पात्रमिन्द्रपानमिति याज्या। आ. ६-४। इति॥

हे इन्द्र ते तव मन्यवे कोपाय तेजसे वा प्रथमाय मुख्याय श्रद्धधामि। श्रद्धा नामादरातिशयः। तद्विषयं करोमि। यद्येन मन्युना त्वं वृत्रमावरकमसुरं मेघं वा नर्यं नेतव्यमहन् अवधीः। हत्वा च तेनावृता अप उदकानि च विवेः इमं लोकं प्रत्यागमयः। तस्मै मन्यव इत्यन्वयः। यद्यदोभे रोदसी द्यावापृथिव्यौ त्वा त्वामनुसृत्य भवतः वर्तेते। त्वदधीने अभूतामित्यर्थः। तदानीं पृथिवी चित्। पृथिवीत्यन्तरिक्षनाम। प्रथितं विस्तीर्णमन्तरिक्षमपि हे अद्रिवो वज्रवन्निन्द्र शुष्मात्त्वदीयाद्बलाद्रेजते। कम्पते॥१॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः