मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४७, ऋक् ३

संहिता

ऐषु॑ चाकन्धि पुरुहूत सू॒रिषु॑ वृ॒धासो॒ ये म॑घवन्नान॒शुर्म॒घम् ।
अर्च॑न्ति तो॒के तन॑ये॒ परि॑ष्टिषु मे॒धसा॑ता वा॒जिन॒मह्र॑ये॒ धने॑ ॥

पदपाठः

आ । ए॒षु॒ । चा॒क॒न्धि॒ । पु॒रु॒ऽहू॒त॒ । सू॒रिषु॑ । वृ॒धासः॑ । ये । म॒घ॒ऽव॒न् । आ॒न॒शुः । म॒घम् ।
अर्च॑न्ति । तो॒के । तन॑ये । परि॑ष्टिषु । मे॒धऽसा॑ता । वा॒जिन॑म् । अह्र॑ये । धने॑ ॥

सायणभाष्यम्

हे पुरुहूतेन्द्र एषु सुरिष्वा चाकन्धि। अथर्थमभिदीप्यस्व। अभिकामयस्व। कनी दीप्तिकान्तिगतिषु। अस्माच्चर्करीतमेतत्। हे मघवन्धनवन्निन्द्र ये सूरयो वृधानस्त्वत्प्रसादाद्वर्धमानाः सन्तो मघं धनमानशुः प्राप्नुवन्ति। अपि च मेधसाता मेधसातौ यज्ञे वाजिनं बलवन्तमन्नवन्तं वेजनवन्तं वा त्वां येऽर्चन्ति पूजयन्ति तोके पुत्रे तनये तत्पुत्रे परिष्टिषु परित इष्यमानेष्वन्येष्वपि फलेष्वह्रयेऽलजाकरे धने द। एतेषु निमित्तेषु सत्सु त्वामेव स्तुश्त्यादिभिः पूजयन्तीत्यर्थः॥३॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः