स इन्नु रा॒यः सुभृ॑तस्य चाकन॒न्मदं॒ यो अ॑स्य॒ रंह्यं॒ चिके॑तति ।
त्वावृ॑धो मघवन्दा॒श्व॑ध्वरो म॒क्षू स वाजं॑ भरते॒ धना॒ नृभि॑ः ॥
सः । इत् । नु । रा॒यः । सुऽभृ॑तस्य । चा॒क॒न॒त् । मद॑म् । यः । अ॒स्य॒ । रंह्य॑म् । चिके॑तति ।
त्वाऽवृ॑धः । म॒घ॒ऽव॒न् । दा॒शुऽअ॑ध्वरः । म॒क्षु । सः । वाज॑म् । भ॒र॒ते॒ । धना॑ । नृऽभिः॑ ॥
स इत् स एव स्तोता सुभृतस्य सुष्ठु सम्पादितस्य रायो धनस्य। द्वितीयार्थे षष्ठी। ईदृशं धनं नु क्शिप्रं चाकनत्। कामयते। लभत इत्यर्थः। रंह्यम् । रंहोवेगः। तदर्हमस्येन्द्रस्य मदं सोमपानजन्यं हर्षं यः स्तोता चिके तति स्तुतिपदैर्जानाति। हे मघवन् त्वावृधस्त्वया वर्धितो दाश्वध्वरो दत्त्तयज्ञो यजमानो नृभिर्नेतृभिरृत्विग्भिर्भृत्यैर्वा धना धनानि वाजमन्नं च मक्षु शीघ्रं भरते। सम्पादयति॥४॥