मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४७, ऋक् ५

संहिता

त्वं शर्धा॑य महि॒ना गृ॑णा॒न उ॒रु कृ॑धि मघवञ्छ॒ग्धि रा॒यः ।
त्वं नो॑ मि॒त्रो वरु॑णो॒ न मा॒यी पि॒त्वो न द॑स्म दयसे विभ॒क्ता ॥

पदपाठः

त्वम् । शर्धा॑य । म॒हि॒ना । गृ॒णा॒नः । उ॒रु । कृ॒धि॒ । म॒घ॒ऽव॒न् । श॒ग्धि । रा॒यः ।
त्वम् । नः॒ । मि॒त्रः । वरु॑णः । न । मा॒यी । पि॒त्वः । न । द॒स्म॒ । द॒य॒से॒ । वि॒ऽभ॒क्ता ॥

सायणभाष्यम्

हे इन्द्र त्वं महिना महता स्तोत्रेण गृणानः स्तूयमानः सञ्शर्धाय शर्धं बलमुरु कृधि। विस्तीर्णं कुरु। हे मघवन् रायो धनानि च शग्धि। अस्मभ्यं प्रयच्छ। हे दस्म दर्शनीयेन्द्र विभक्ता विशेषेन धनानां भाजयिता त्वं मित्रो वरुणो न मित्रवद्वरुणवच्च मायी प्रज्ञा युक्तः सन्नोऽस्मभ्यम् । नः सम्प्रत्यर्थे। सम्प्रति पित्वोऽन्नानि दयसे। प्रयच्छसि॥५॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः