मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४८, ऋक् १

संहिता

सु॒ष्वा॒णास॑ इन्द्र स्तु॒मसि॑ त्वा सस॒वांस॑श्च तुविनृम्ण॒ वाज॑म् ।
आ नो॑ भर सुवि॒तं यस्य॑ चा॒कन्त्मना॒ तना॑ सनुयाम॒ त्वोता॑ः ॥

पदपाठः

सु॒स्वा॒नासः॑ । इ॒न्द्र॒ । स्तु॒मसि॑ । त्वा॒ । स॒स॒ऽवांसः॑ । च॒ । तु॒वि॒ऽनृ॒म्ण॒ । वाज॑म् ।
आ । नः॒ । भ॒र॒ । सु॒वि॒तम् । यस्य॑ । चा॒कन् । त्मना॑ । तना॑ । स॒नु॒या॒म॒ । त्वाऽऊ॑ताः ॥

सायणभाष्यम्

सुष्वाणास इति पञ्चर्चं विंशं सूक्तं वेनपुत्रस्य पृथोरार्षं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च। सुष्वाणासः प्रुथुर्वैन्य इति। गतो विनियोगः॥

हे इन्द्र सुष्वाणासः सोममभिषुतवन्तो वयं त्वां स्तुमसि। स्तुमः। हे तुविनृम्ण बहुलधन वाजं चरुपुरॊडाशादिलक्षणमन्नं ससवांसः सम्भक्तवन्तश्च वयं त्वां स्तुमः। यत एवमतो हेतोर्नोऽस्मभ्यं सुवितं सुष्ठु प्राप्तव्यं शोभनं धनमा भर। आहर। प्रयच्छ। यद्वा। यस्य युद्धनमतिप्रियत्वेन चाकन् त्वं कामयसे तद्धनमा भरेत्यर्थः। वयं च त्वोतास्त्वया रक्शिताः सन्तस्तना। धननामैतत्। विस्तृतानि धनानि त्मनात्मना स्वयमेवान्यनैरपेक्ष्येणैव सनुयाम। तव प्रसादालाभेमहि॥१॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः