मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४८, ऋक् ४

संहिता

इ॒मा ब्रह्मे॑न्द्र॒ तुभ्यं॑ शंसि॒ दा नृभ्यो॑ नृ॒णां शू॑र॒ शवः॑ ।
तेभि॑र्भव॒ सक्र॑तु॒र्येषु॑ चा॒कन्नु॒त त्रा॑यस्व गृण॒त उ॒त स्तीन् ॥

पदपाठः

इ॒मा । ब्रह्म॑ । इ॒न्द्र॒ । तुभ्य॑म् । शं॒सि॒ । दाः । नृऽभ्यः॑ । नृ॒णाम् । शू॒र॒ । शवः॑ ।
तेभिः॑ । भ॒व॒ । सऽक्र॑तुः । येषु॑ । चा॒कन् । उ॒त । त्रा॒य॒स्व॒ । गृ॒ण॒तः । उ॒त । स्तीन् ॥

सायणभाष्यम्

हे इन्द्र त्वदर्थमिमेमानि पुरोवर्तीनि ब्रह्म ब्रह्माणि परिवृढानि स्तोत्राणि शंसि। अशंसिषत। शस्यन्ते। शंसेश्छान्दसे कर्मणि लुङि व्यत्ययेनैकवचनम्। हे शूर शौर्यवन्निन्द्र त्वं नृणां मनुश्याणां मध्ये नृभ्यः स्तुत्यादेर्नेतृभ्यः शवोबलं दाः। देहि। अपि च तेभिस्तैः सक्रतुः समानकर्मा समानप्रज्ञो वा भव येषु स्तोतृषु चाकन् हविरादि कामयसे। कन दीप्तिकान्तिगतिषु। अस्माद्यङ्लुगन्ताच्छान्दसे लङि सिपि रूपमेतत्। कमेर्वा पूर्ववत्। सिपि मो नो धातोरिति नत्वम्। उतापि च गृणतः स्तोतॄंस्त्रायस्व। पालय। उतापि च स्तीन्। स्त्यायतेरेतद्रूपम्। सङ्घीभूय स्थितान्यजमानानपि त्रायस्व॥४॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः