मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४९, ऋक् २

संहिता

यत्रा॑ समु॒द्रः स्क॑भि॒तो व्यौन॒दपां॑ नपात्सवि॒ता तस्य॑ वेद ।
अतो॒ भूरत॑ आ॒ उत्थि॑तं॒ रजोऽतो॒ द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥

पदपाठः

यत्र॑ । स॒मु॒द्रः । स्क॒भि॒तः । वि । औन॑त् । अपा॑म् । न॒पा॒त् । स॒वि॒ता । तस्य॑ । वे॒द॒ ।
अतः॑ । भूः । अतः॑ । आः॒ । उत्थि॑तम् । रजः॑ । अतः॑ । द्यावा॑पृथि॒वी इति॑ । अ॒प्र॒थे॒ता॒म् ॥

सायणभाष्यम्

यत्र यस्मिन्नन्तरिक्षे समुद्रः समुन्दनशीलो मेघः स्कभितः स्तम्भितो वायुपाशैर्बद्धः सन् व्यौनत् विशेषेण भूमिमुनत्ति उदकैः क्लेदयति। उन्दीक्लेदने। अस्माच्छान्दसे लङि रूपमेतत्। हे अपां नपान्मध्यमस्थान वैद्युताग्ने तव सम्बन्धी सविता प्रेरको देवस्तस्य तत्स्थानं वेद। वेत्ति। जानाति। अतोऽस्मादेव सवितुर्भूर्भूमिरासीत्। अत एवोत्थितमूर्ध्वमेव स्थितं रजोऽन्तरिक्षमाः। आसीत्। अजायत। अस्तेर्लुङि बहुलं छन्दसीतीडभावः। हल्ङ्याब्भ्य इति लोपः। अतोऽस्मादेव सवितुर्द्यावापृथिवी द्यावापृथिव्यावप्रथेताम्। विस्तीर्णे अप्यभूताम्॥२॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः