गाव॑ इव॒ ग्रामं॒ यूयु॑धिरि॒वाश्वा॑न्वा॒श्रेव॑ व॒त्सं सु॒मना॒ दुहा॑ना ।
पति॑रिव जा॒याम॒भि नो॒ न्ये॑तु ध॒र्ता दि॒वः स॑वि॒ता वि॒श्ववा॑रः ॥
गावः॑ऽइव । ग्राम॑म् । युयु॑धिःऽइव । अश्वा॑न् । वा॒श्राऽइ॑व । व॒त्सम् । सु॒ऽमनाः॑ । दुहा॑ना ।
पतिः॑ऽइव । जा॒याम् । अ॒भि । नः॒ । नि । ए॒तु॒ । ध॒र्ता । दि॒वः । स॒वि॒ता । वि॒श्वऽवा॑रः ॥
गाव इव यथारण्ये सञ्चरन्तो गावो ग्रामं शीघ्रमभिगच्छन्ति। युयुधिरिव यथा च युद्धार्थमश्वानभिगच्छति। युध सम्प्रहारे। आदृगमहनजनेत्यत्रोत्सर्गश्छन्दसि। पा. ३-२-१७१-२। इति वचनात्किन्प्रत्ययः। छान्दसं सांहितिकमभ्यासदीर्घत्वम्। सुमनाः शोभनमनस्का दुहाना दोग्ध्री बहुपयस्का वाश्रेव हंभारवात्मकं शब्दं कुर्वती गौर्यथात्मीयं वत्समभिगच्छति। पतिरिव यथा भर्ता जायाम् स्वभार्यां शीघ्रमभिगच्छति एवमेव सविता नोऽस्मान्न्यभ्येतु। नितरामभिगच्छतु। कीदृशः। दिवो द्युलोकस्य धर्ता धारयितावस्थापयिता वा अत एव विश्वावारः सर्वैर्वरणीयः॥४॥