मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५०, ऋक् १

संहिता

समि॑द्धश्चि॒त्समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन ।
आ॒दि॒त्यै रु॒द्रैर्वसु॑भिर्न॒ आ ग॑हि मृळी॒काय॑ न॒ आ ग॑हि ॥

पदपाठः

सम्ऽइ॑द्धः । चि॒त् । सम् । इ॒ध्य॒से॒ । दे॒वेभ्यः॑ । ह॒व्य॒ऽवा॒ह॒न॒ ।
आ॒दि॒त्यैः । रु॒द्रैः । वसु॑ऽभिः । नः॒ । आ । ग॒हि॒ । मृ॒ळी॒काय॑ । नः॒ । आ । ग॒हि॒ ॥

सायणभाष्यम्

समिद्ध इति पञ्चर्चं द्वाविंशं सूक्तं वसिष्ठपुत्रस्य मृळीकस्यार्षस्यार्षमाग्नेयम्। चतुर्थीपञ्चम्यावुपरिष्टाज्ज्योतिषी त्रिद्वादशाष्टकवत्यौ। अक्शरव्यूहेन चतुर्थी जगती वा। शिष्टा बृहत्यः। तथा चानुक्रान्तम्। समिद्धो मृळीको वासिष्ठ आग्नेयं बार्हतमन्त्ये उपरिष्टाज्ज्योतिषी जगत्युपान्त्या वेति। गतो विनियोगः॥

हे हव्यवाहन हव्यानां हविषां वोढरग्ने समिद्धश्चित् सन्दीप्तोऽपि देवेभ्यो यागार्थं समिध्यसे। पुनरप्यृत्विग्भिः समिद्भिः सन्दीप्यसे। स त्वमादित्यैरादित्यादिभिस्त्रिभिर्र्गनैः सार्धं नोऽस्माना गहि। आगच्छ। तथा नोऽस्माकं मृळीकाय सुखाय तदर्थमाप्या गहि। यद्वा। मृळीकायैतत्संज्ञाय नो मह्यमृशये श्रेयांसि कर्तुमागच्छ॥१॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः