मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५०, ऋक् २

संहिता

इ॒मं य॒ज्ञमि॒दं वचो॑ जुजुषा॒ण उ॒पाग॑हि ।
मर्ता॑सस्त्वा समिधान हवामहे मृळी॒काय॑ हवामहे ॥

पदपाठः

इ॒मम् । य॒ज्ञम् । इ॒दम् । वचः॑ । जु॒जु॒षा॒णः । उ॒प॒ऽआग॑हि ।
मर्ता॑सः । त्वा॒ । स॒म्ऽइ॒धा॒न॒ । ह॒वा॒म॒हे॒ । मृ॒ळी॒काय॑ । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

हे अग्ने इममस्माभिः क्रियमाणं पुरोवर्तिनं यज्ञमिदं वचः स्तोत्रं च जुजुषाणः सेवमान उपागहि। उपागच्छ। हे समिधान समिध्यमान मर्तासो मर्ता मनुष्यास्त्वा त्वां हवामहे। आह्वयामहे। मृळीकाय सुखायैतत्संज्ञाय वर्षये त्वामेवाह्वयामहे॥२॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः