त्वामु॑ जा॒तवे॑दसं वि॒श्ववा॑रं गृणे धि॒या ।
अग्ने॑ दे॒वाँ आ व॑ह नः प्रि॒यव्र॑तान्मृळी॒काय॑ प्रि॒यव्र॑तान् ॥
त्वाम् । ऊं॒ इति॑ । जा॒तऽवे॑दसम् । वि॒श्वऽवा॑रम् । गृ॒णे॒ । धि॒या ।
अग्ने॑ । दे॒वान् । आ । व॒ह॒ । नः॒ । प्रि॒यऽव्र॑तान् । मृ॒ळी॒काय॑ । प्रि॒यऽव्र॑तान् ॥
हे अग्ने विश्वावारं वश्वैः सर्वैर्वरणीयं जातवेदसं जातानां वेदितारं जातप्रज्ञं जातधनं वा त्वामु त्वामेव धिया स्तुत्या गृणे। स्त्ॐइ। गॄ शब्दे। क्रैयादिकः। प्वादित्वाद्ध्रस्वः। प्रियव्रतान् प्रियाणि व्रतानि कर्माणि येषां तादृशान्देवान्नोऽस्मदर्थमा वह। आनय। अस्मद्यज्ञं प्रापय। मृळीकाय सुखार्थमेतत्संज्ञाय वा मह्यम् प्रियव्रतांस्तानेवावह॥३॥