मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५०, ऋक् ५

संहिता

अ॒ग्निरत्रिं॑ भ॒रद्वा॑जं॒ गवि॑ष्ठिरं॒ प्राव॑न्न॒ः कण्वं॑ त्र॒सद॑स्युमाह॒वे ।
अ॒ग्निं वसि॑ष्ठो हवते पु॒रोहि॑तो मृळी॒काय॑ पु॒रोहि॑तः ॥

पदपाठः

अ॒ग्निः । अत्रि॑म् । भ॒रत्ऽवा॑जम् । गवि॑ष्ठिरम् । प्र । आ॒व॒त् । नः॒ । कण्व॑म् । त्र॒सद॑स्युम् । आ॒ऽह॒वे ।
अ॒ग्निम् । वसि॑ष्ठः । ह॒व॒ते॒ । पु॒रःऽहि॑तः । मृ॒ळी॒काय॑ । पु॒रःऽहि॑तः ॥

सायणभाष्यम्

अत्रिं भरद्वाजं गविष्ठि रम् कण्वं त्रसदस्युं च नोऽस्मानाहवे सङ्ग्रामेऽयमग्निः प्रावत्। प्ररक्षतु। पुरोहितः पुरोहितवद्धितकारी मम पिता वसिष्ठ ऋषिरग्निं हवते। स्तुतिभिराह्वयति। स चाहूतो मृळीकाय सुखार्थमेतत्संज्ञाय वा मह्यं पुरोहितः पुरोधा देवानां पुरः स्थापयिता भवतु॥५॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः