मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५१, ऋक् २

संहिता

प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः ।
प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ॥

पदपाठः

प्रि॒यम् । श्र॒द्धे॒ । दद॑तः । प्रि॒यम् । श्र॒द्धे॒ । दिदा॑सतः ।
प्रि॒यम् । भो॒जेषु॑ । यज्व॑ऽसु । इ॒दम् । मे॒ । उ॒दि॒तम् । कृ॒धि॒ ॥

सायणभाष्यम्

हे श्रद्धे ददतश्चरुपुरोडाशादीनि प्रयच्छतो यजमानस्य प्रियमभीष्टफलं कुरु। दिदासतो दातुमिच्छतश्च हे श्रद्धे प्रियं कुरु। मे मम सम्बन्धिषु भोजेषु भोक्तृषु भोगार्थिषु यज्वसु कृतयज्ञेषु जनेशु चेदमुदितमुक्तम् प्रियं कृधि। कुरु॥२॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः