मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५१, ऋक् ३

संहिता

यथा॑ दे॒वा असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे ।
ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ॥

पदपाठः

यथा॑ । दे॒वाः । असु॑रेषु । श्र॒द्धाम् । उ॒ग्रेषु॑ । च॒क्रि॒रे ।
ए॒वम् । भो॒जेषु॑ । यज्व॑ऽसु । अ॒स्माक॑म् । उ॒दि॒तम् । कृ॒धि॒ ॥

सायणभाष्यम्

देवा इन्द्रादयोऽसुरेषूद्गूर्णबलेशु यथा स्रद्धां चक्रिरे अवश्यमिमे हन्तव्या इत्यादरातिशयं कृतवन्तः एवं श्रद्धावत्सुभोजेषु भोक्तृषु भोगार्थिषु यज्वसु यष्टृष्वस्माकमस्मत्सम्बन्धिषु तेषूदितं तैरुक्तं प्रार्थितं फलजातं कृधि। कुरु॥३॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः