मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५१, ऋक् ४

संहिता

श्र॒द्धां दे॒वा यज॑माना वा॒युगो॑पा॒ उपा॑सते ।
श्र॒द्धां हृ॑द॒य्य१॒॑याकू॑त्या श्र॒द्धया॑ विन्दते॒ वसु॑ ॥

पदपाठः

श्र॒द्धाम् । दे॒वाः । यज॑मानाः । वा॒युऽगो॑पाः । उप॑ । आ॒स॒ते॒ ।
श्र॒द्धाम् । हृ॒द॒य्य॑या । आऽकू॑त्या । श्र॒द्धया॑ । वि॒न्द॒ते॒ । वसु॑ ॥

सायणभाष्यम्

देवा यजमाना मनुष्याश्च वायुगोपा वायुर्गोपा रक्शितायेशां ते तादृशाः सन्तः श्रद्धां देवीमुपासते। प्रार्थयन्ते। ह्रुदय्यया। हृदये भवा हृदय्या। तधाविधयाकूत्या सङ्कल्परूपया क्रियया श्रद्धामेव परिचरन्ति सर्वे जनाः। कुत इत्यत आह। यतः कारणाच्छ्रद्धया हेतुभुतया वसु धनं विन्दते लभते श्रद्धावाञ्जनः। तत इत्यर्थः॥४॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः