मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५२, ऋक् १

संहिता

शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रखा॒दो अद्भु॑तः ।
न यस्य॑ ह॒न्यते॒ सखा॒ न जीय॑ते॒ कदा॑ च॒न ॥

पदपाठः

शा॒सः । इ॒त्था । म॒हान् । अ॒सि॒ । अ॒मि॒त्र॒ऽखा॒दः । अद्भु॑तः ।
न । यस्य॑ । ह॒न्यते॑ । सखा॑ । न । जीय॑ते । कदा॑ । च॒न ॥

सायणभाष्यम्

द्वादशेऽनुवाके चत्वारिंशत्सूक्तानि। तत्र शास इत्थेति पञ्चर्चं प्रथमं सूक्तं शासनाम्न आर्षमानुष्टुभमैन्द्रम्। अनुक्रान्तं च। शासह् शासो भारद्वाज इति। युद्धाय सन्नद्धं राजानमनेनेक्षेत। तथा च सूत्रितम्। अथैनमन्वीक्षेताप्रतिरथशाससौपर्णैः। आ. गृ. ३-१२-१३। इति॥

शासस्तत्संज्ञोऽहमित्थमनेन वक्श्यमाण् प्रकारेणेन्द्रं स्त्ॐईति शेषः। हे इन्द्र त्वं महा असि। सर्वेभ्योऽधिको भवसि। अमित्रखादोऽमित्राणां शत्रूणां खादिता विनाशयिता अत एवाद्भुत आश्चर्यभुतश्च भवसीति यस्येन्द्रस्य सखामित्रभूतः पुरुषः कदा चन कदाचिदपि न हन्यते न हिंस्यते न जीयते न च शत्रुभिः पराजितो भवति स त्वं महा असीत्यन्वयः॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०