मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५२, ऋक् २

संहिता

स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी ।
वृषेन्द्र॑ः पु॒र ए॑तु नः सोम॒पा अ॑भयंक॒रः ॥

पदपाठः

स्व॒स्ति॒ऽदाः । वि॒शः । पतिः॑ । वृ॒त्र॒ऽहा । वि॒ऽमृ॒धः । व॒शी ।
वृषा॑ । इन्द्रः॑ । पु॒रः । ए॒तु॒ । नः॒ । सो॒म॒ऽपाः । अ॒भ॒य॒म्ऽक॒रः ॥

सायणभाष्यम्

स्वस्तिदाः स्वस्तेरविनाशस्य दाता विशस्पतिः सर्वस्याः प्रजायाः पालयिता वृत्रहा वृत्रानां शत्रूणां हन्ता विमृधः सङ्ग्रामकारी वशी वशीकर्ता वृषा वर्षिता कामानां सोमपाः सोमस्य पाता एवं विध इन्द्रोऽभयङ्करोऽभयस्य भयराहित्यस्य कर्ता सन्नोऽस्माकं पुर एतु। पुरतो गच्छातु॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०