मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५२, ऋक् ४

संहिता

वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः ।
यो अ॒स्माँ अ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑ ॥

पदपाठः

वि । नः॒ । इ॒न्द्र॒ । मृधः॑ । ज॒हि॒ । नी॒चा । य॒च्छ॒ । पृ॒त॒न्य॒तः ।
यः । अ॒स्मान् । अ॒भि॒ऽदास॑ति । अध॑रम् । ग॒म॒य॒ । तमः॑ ॥

सायणभाष्यम्

वि न इन्द्रेति वैमृधस्य हविषोऽनुवाक्या। सूत्रितं च। वि न इन्द्र मृधो जहि मृगो न भीमः कुचरो गिरिष्थाः। आ. २-१०। इति॥

हे इन्द्र नोऽस्माकं मृधः सङ्ग्रामकारिणः शत्रून्वि जहि। विनाशय। तथा पृतन्यतः पृतनाः सेना आत्मन इच्छतो ययत्समानानपि नीचा यच्छ। नीचीनमवाङ्मुखं यच्छ। गमय। यः शत्रुरस्मानभिदासति अभित उपक्षयति तमधरं निकृष्टं तमोऽन्धकारं मरणलक्षणं गमय। प्रापय॥४॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०