ई॒ङ्खय॑न्तीरप॒स्युव॒ इन्द्रं॑ जा॒तमुपा॑सते ।
भे॒जा॒नासः॑ सु॒वीर्य॑म् ॥
ई॒ङ्खय॑न्तीः । अ॒प॒स्युवः॑ । इन्द्र॑म् । जा॒तम् । उप॑ । आ॒स॒ते॒ ।
भे॒जा॒नासः॑ । सु॒ऽवीर्य॑म् ॥
ईंखयन्तीरिति पञ्चर्चं गायत्रमैन्द्रं द्वितीयं सूक्तम्। देवानां स्वसृभूता इन्द्रमातरो नामर्षिकाः। तथा चानुक्रान्तम्। ईंखयन्तीर्देवजामय इन्द्रमातरो गायत्रमिति। द्वितीये पर्याये प्रशास्तुः शस्त्र इदं सूक्तम्। सूत्रितं च। ईंखयन्तीरहं दां पाता सुतम्। आ. ६-४। इति। महाव्रतेऽपि प्रातः सवनिके ब्रह्मशस्त्र एतत्सूक्तम्॥
ईंखयन्तीर्गच्छन्त्यः स्तुत्यादिभिरिन्द्रं प्राप्नुवत्योऽपस्युवोऽपः कर्मात्मन इच्छन्त्य इन्द्रमातरोऽस्य सूक्तस्य द्रष्ट्र्यो जातं प्रादुर्भूतमिन्द्रमुपासते। परिचरन्ति। सुवीर्यं शोभनवीर्योपेतं धनं च भेजानासः। तस्मादिन्द्रात्संभक्तवत्यो भवन्ति॥१॥