मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५३, ऋक् २

संहिता

त्वमि॑न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः ।
त्वं वृ॑ष॒न्वृषेद॑सि ॥

पदपाठः

त्वम् । इ॒न्द्र॒ । बला॑त् । अधि॑ । सह॑सः । जा॒तः । ओज॑सः ।
त्वम् । वृ॒ष॒न् । वृषा॑ । इत् । अ॒सि॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं सहसः परेषामभिभावुदाद्बलादधि जातोऽसि। अधिः पञ्चम्यर्थानुवादकः। वृत्रातिवधहेतुभूताद्बलाद्धेतोस्त्वं प्रख्यातो भवसीत्यर्थः। अपि चौजसः। ओजो नाम बलहेतु हृदयगतं धैर्यम्। तस्मादपि त्वं जतोऽसि। हे वृषन्वर्षितः त्वं वृषेदसि। कामानां वर्षितैव भवसि॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११