त्वमि॑न्द्रासि वृत्र॒हा व्य१॒॑न्तरि॑क्षमतिरः ।
उद्द्याम॑स्तभ्ना॒ ओज॑सा ॥
त्वम् । इ॒न्द्र॒ । अ॒सि॒ । वृ॒त्र॒ऽहा । वि । अ॒न्तरि॑क्षम् । अ॒ति॒रः॒ ।
उत् । द्याम् । अ॒स्त॒भ्नाः॒ । ओज॑सा ॥
हे इन्द्र त्वं वृत्रहासि। शत्रूणां हन्ता भवसि। अन्तरिक्षं मध्यमस्थानं च व्यतिरः। अवारकापनोदनेन प्रावर्धयः। द्यां द्युलोकं चौजसा बलेनोदस्त्भ्नाः। ऊर्ध्वमस्तंभी। यथाधो न पतति तथोपर्यवस्थापितवानित्यर्थः॥३॥