मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५३, ऋक् ४

संहिता

त्वमि॑न्द्र स॒जोष॑सम॒र्कं बि॑भर्षि बा॒ह्वोः ।
वज्रं॒ शिशा॑न॒ ओज॑सा ॥

पदपाठः

त्वम् । इ॒न्द्र॒ । स॒ऽजोष॑सम् । अ॒र्कम् । बि॒भ॒र्षि॒ । बा॒ह्वोः ।
वज्र॑म् । शिशा॑नः । ओज॑सा ॥

सायणभाष्यम्

हे इन्द्र त्वम् सजोषसम् सह प्रीयमाणमर्कं स्तुत्यं वज्रमात्मीयमायुधमोजसा बलेन शिशानो न्बिश्यंस्तीक्ष्णीकुर्वन्बाह्बोर्हस्तयोर्बिभर्षि। धारयसि शत्रूणां वधार्थम्॥४॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११