मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५३, ऋक् ५

संहिता

त्वमि॑न्द्राभि॒भूर॑सि॒ विश्वा॑ जा॒तान्योज॑सा ।
स विश्वा॒ भुव॒ आभ॑वः ॥

पदपाठः

त्वम् । इ॒न्द्र॒ । अ॒भि॒ऽभूः । अ॒सि॒ । विश्वा॑ । जा॒तानि॑ । ओज॑सा ।
सः । विश्वाः॑ । भुवः॑ । आ । अ॒भ॒वः॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं विश्वा सर्वाणि जातानि जनिमन्ति भूतान्योजसा बलेनाभिभूरभिभविता भवसि। तथा स तादृशस्त्वं विश्वा भुवः सर्वा भुमीः प्राप्तव्यानि सर्वाण्यपि स्थानान्याभवः। अभितः प्रप्नोः। भू प्राप्तौ॥५॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११