मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५४, ऋक् ४

संहिता

ये चि॒त्पूर्व॑ ऋत॒साप॑ ऋ॒तावा॑न ऋता॒वृधः॑ ।
पि॒तॄन्तप॑स्वतो यम॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ॥

पदपाठः

ये । चि॒त् । पूर्वे॑ । ऋ॒त॒ऽसापः॑ । ऋ॒तऽवा॑नः । ऋ॒त॒ऽवृधः॑ ।
पि॒तॄन् । तप॑स्वतः । य॒म॒ । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥

सायणभाष्यम्

ये चिद्ये च पूर्वे पूर्वपुरुषा ऋतसाप ऋतं सत्यं यज्ञम् वा स्पृशन्तह् अत एवर्तवान ऋतेन युक्ता ऋतवृध ऋतस्य वर्थकाश्च भवन्ति तपस्वतस्तपसा युक्तांस्तानेव पितॄन् हे यम नियत त्वमपिगच्छ॥४॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२