मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५५, ऋक् २

संहिता

च॒त्तो इ॒तश्च॒त्तामुत॒ः सर्वा॑ भ्रू॒णान्या॒रुषी॑ ।
अ॒रा॒य्यं॑ ब्रह्मणस्पते॒ तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि ॥

पदपाठः

च॒त्तो इति॑ । इ॒तः । च॒त्ता । अ॒मुतः॑ । सर्वा॑ । भ्रू॒णानि॑ । आ॒रुषी॑ ।
अ॒रा॒य्य॑म् । ब्र॒ह्म॒णः॒ । प॒ते॒ । तीक्ष्ण॑ऽशृङ्ग । उ॒त्ऽऋ॒षन् । इ॒हि॒ ॥

सायणभाष्यम्

सालक्ष्मीरितोऽस्माल्लोकाच्चत्तो चत्तैवास्माभिर्नाशितैवामुतोऽमुष्मादपि लोकाच्चत्ता हिंसिता भवतु। यालक्श्मीः सर्वा सर्वाणि भ्रूणानि गर्भजातानि सर्वासामोषधीनामङ्कुराणि या दुर्भिक्षाधिदेवतारुष्याहन्त्री भवति अराय्यम् दानविरोधिनीं तां हे ब्रह्मनस्पते मन्त्रपालयितर्देव हे तीक्ष्णशृङ्ग तीक्श्ण तेजस्क उदृषन्नस्मात्स्थानादुद्गमयन्निहि। गच्छ॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३