मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५५, ऋक् ४

संहिता

यद्ध॒ प्राची॒रज॑ग॒न्तोरो॑ मण्डूरधाणिकीः ।
ह॒ता इन्द्र॑स्य॒ शत्र॑व॒ः सर्वे॑ बुद्बु॒दया॑शवः ॥

पदपाठः

यत् । ह॒ । प्राचीः॑ । अज॑गन्त । उरः॑ । म॒ण्डू॒र॒ऽधा॒णि॒कीः॒ ।
ह॒ताः । इन्द्र॑स्य । शत्र॑वः । सर्वे॑ । बु॒द्बु॒दऽया॑शवः ॥

सायणभाष्यम्

षष्ठेऽहनि तृतीयसवने ब्राह्मणाच्छंसिशस्त्रे यद्ध प्राचीरित्येषा। सूत्रितं च। कपृन्नरो यद्ध प्राचीरजगन्तेति चैते। आ. ८-३। इति॥

हे मण्डूरधणिकीर्मण्डूरवत्कुत्सितशब्दकारिण्यो मन्दनस्य धनस्य धरयित्र्यो वालक्ष्म्य उरः। उर्वी हिंसार्थः। अस्मात्क्विपि राल्लोप इति वलोपः। ततो जसि रूपवेतत्। हिंसित्र्यो यूयं प्राचीः प्रकर्षेणांचन्त्यः प्रकृष्टगमनाः सत्यो यद्ध यदा खल्वजगन्त अगच्छत। गमेर्लङि मध्यमबहुवचने छान्दसः शपः श्लुः तप्तनप्तनथनाश्चेति तस्य तनबादेशः। अत एव ङित्वाभावदनुनासिकलोपो न भवति। तदानीमेव सर्व इन्द्रस्य शत्रवो बुद्बुदयाशवः। यान्ति गच्छन्तीति याः। अश्नुवत इत्याशवः। याश्च त आशवश्च याशवः। बुद्बुदवद्यतारो व्यापनशीलाश्च सन्तो हता नष्टा आसन्॥४॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३