मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५६, ऋक् २

संहिता

यया॒ गा आ॒करा॑महे॒ सेन॑याग्ने॒ तवो॒त्या ।
तां नो॑ हिन्व म॒घत्त॑ये ॥

पदपाठः

यया॑ । गाः । आ॒ऽकरा॑महे । सेन॑या । अ॒ग्ने॒ । तव॑ । ऊ॒त्या ।
ताम् । नः॒ । हि॒न्व॒ । म॒घत्त॑ये ॥

सायणभाष्यम्

हे अग्ने सेनयेनेन सह वर्तमानया सेनरूपया वा यया तवोत्या रक्षया गा आकरामहे आभिमुख्येन कुर्महे। लाभामह इत्यर्थः। तामूतिं नोऽस्मान्हिन्व। गमय। किमर्थम् । मघत्तये। धनस्य दानार्थम् । अस्माकं धनलाभायेत्यर्थः॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४