मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५६, ऋक् ३

संहिता

आग्ने॑ स्थू॒रं र॒यिं भ॑र पृ॒थुं गोम॑न्तम॒श्विन॑म् ।
अ॒ङ्ग्धि खं व॒र्तया॑ प॒णिम् ॥

पदपाठः

आ । अ॒ग्ने॒ । स्थू॒रम् । र॒यिम् । भ॒र॒ । पृ॒थुम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।
अ॒ङ्ग्धि । खम् । व॒र्तय॑ । प॒णिम् ॥

सायणभाष्यम्

आभिप्लविकेषुक्थ्येषु प्रशास्तुः शस्त्र आग्ने स्थूरमिति तृचो वैकल्पिकोऽनुरूपः। सूत्रितं च। आ ते वत्सो मनो यमदाग्ने स्थूरं रयिं भर। आ. ७=८। इति॥

हे अग्ने स्थूरम् स्थूलं वृद्धं पृथुं विस्तीर्णं गोमन्तं गोभिर्युक्तमश्विनमश्वोपेतं रयिं धनमा भर। अस्मभ्यमाहर। प्रयच्छ। खमन्तरिक्षमङ्ग्धि। वृष्ट्युदकैः सिञ्च। यद्वा। आत्मीयैस्तेजोभिव्यञ्जय। प्रकाशय। पणिं वणिजमदातारमसुरं वा वर्तय। इतो निर्गमय। यद्वा। दाने प्रवर्तय॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४