मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५७, ऋक् १

संहिता

इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ॥

पदपाठः

इ॒मा । नु । क॒म् । भुव॑ना । सी॒स॒धा॒म॒ । इन्द्रः॑ । च॒ । विश्वे॑ । च॒ । दे॒वाः ॥

सायणभाष्यम्

इमा नु कमिति पञ्चर्चं षष्ठं सूक्तमप्त्यपुत्रस्य भुवनस्यार्षम् भुवनपुत्रस्य साधनसंज्ञस्य वा वैश्वदेवम्। सर्वा द्विपदास्त्रिष्टुभः। तथा चानुक्रान्तम्। इमा नु भुवन आप्त्यः साधनो वा भौवनो वैश्वदेवम् द्वैपदं त्रैष्टुभमिति। दशरात्रस्य द्वितीये छन्दोमे वैश्वदेवशस्त्रे वैश्वदेवान्निविद्धानात्पूर्वमिदं शंसनीयम्। सूत्रितं च। आ याहि वनसेमा नु कं बभ्रुरेक इति द्विपदासूक्तानि। आ. ८-७। इति। षष्ठेऽहनि तितीये सवने ब्राह्मणाच्छम्सिन उक्थ्यशस्त्र आद्यस्तृचः स्तोत्रियः। ततो द्वे अनुरूपार्थे। सूत्रितं च। ब्राह्मनच्छंसिन इमा नु कं भुवना सीषधामेति पञ्च। आ. ८-३। इति॥

इमेमानि प्रदृश्येमानानि धुवना भुवनानि नु क्षिप्रं सीषधाम। साधयामः। वशीकुर्मः। कमिति पूरकः। यद्वा। इमानि सर्वाणि भूतजातान्यस्मभ्यं कं सुखं सीषधाम। साधयन्तु। पुरुषव्यत्ययः। इन्द्रश्च विश्वे सर्वेऽन्ये देवाश्च स्तुत्या प्रीता इममर्थं साधयन्तु॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५