मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५७, ऋक् २

संहिता

य॒ज्ञं च॑ नस्त॒न्वं॑ च प्र॒जां चा॑दि॒त्यैरिन्द्र॑ः स॒ह ची॑कॢपाति ॥

पदपाठः

य॒ज्ञम् । च॒ । नः॒ । त॒न्व॑म् । च॒ । प्र॒ऽजाम् । च॒ । आ॒दि॒त्यैः । इन्द्रः॑ । स॒ह । ची॒कॢ॒पा॒ति॒ ॥

सायणभाष्यम्

नोऽस्माकं यज्ञं ज्योतिष्टोमादिकं यागं तन्वं शरीरं च प्रजाम्। पुत्रादिकां चादित्यैरदितिपुत्रैरन्यैर्देवैः सह वर्तमान इन्द्रश्चीक्लृपाति। कल्पयतु। यज्ञादिकं स्वव्यापारसमर्थं करोतु॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५