मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५७, ऋक् ४

संहिता

ह॒त्वाय॑ दे॒वा असु॑रा॒न्यदाय॑न्दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ॥

पदपाठः

ह॒त्वाय॑ । दे॒वाः । असु॑रान् । यत् । आय॑न् । दे॒वाः । दे॒व॒ऽत्वम् । अ॒भि॒ऽरक्ष॑माणाः ॥

सायणभाष्यम्

देवा इन्द्रादयोऽसुरान् क्षेप्तॄन्वृत्रादीन्हत्वाय हत्वा विनाश्य यद्यदायन् आगच्छन् स्वकीयं स्थानं प्राप्नुवन् तदानीं ते देवा देवत्वमात्मीयममृतत्वमभिरक्षमाना अभितः सर्वतो रक्षन्तोऽभूवन्। बाधकाभवात्सर्वत्र प्रख्यापितवन्त इत्यर्थः॥४॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५