मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५८, ऋक् ३

संहिता

चक्षु॑र्नो दे॒वः स॑वि॒ता चक्षु॑र्न उ॒त पर्व॑तः ।
चक्षु॑र्धा॒ता द॑धातु नः ॥

पदपाठः

चक्षुः॑ । नः॒ । दे॒वः । स॒वि॒ता । चक्षुः॑ । नः॒ । उ॒त । पर्व॑तः ।
चक्षुः॑ । धा॒ता । द॒धा॒तु॒ । नः॒ ॥

सायणभाष्यम्

सविता प्रेरको देवो नोऽस्माकं चक्षुः प्रकाशकमिन्द्रियमिन्द्रियानुग्राहकं तेजो वा दधातु। उतापि च पर्वत इन्द्रसहचरः पर्वताख्योऽपि देवो नोऽस्माकं चक्शुर्दधातु। धाता सर्वस्य विधातादित्यानामन्यतमश्च नोऽस्माकं चक्षुर्विदधातु॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६