मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५८, ऋक् ५

संहिता

सु॒सं॒दृशं॑ त्वा व॒यं प्रति॑ पश्येम सूर्य ।
वि प॑श्येम नृ॒चक्ष॑सः ॥

पदपाठः

सु॒ऽस॒न्दृश॑म् । त्वा॒ । व॒यम् । प्रति॑ । प॒श्ये॒म॒ । सू॒र्य॒ ।
वि । प॒श्ये॒म॒ । नृ॒ऽचक्ष॑सः ॥

सायणभाष्यम्

हे सूर्य सुसंदृशं सुष्ठु संदृष्टारं त्वा त्वाम् वयं प्रति पश्येम। प्रत्येकं द्रष्टारो भूयास्म। तथा न्रुचक्शसो नृभिर्मनुष्यैरमाभिर्द्रष्टव्यान्पदार्थान्विपश्येम। विद्रष्टारो भवेम। यद्वा। नृचक्शसो नृणां शत्रुमनुष्याणाम् हिम्सकाः सन्तो वयं विशिष्टज्ञाना भवेम॥५॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६