मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५९, ऋक् १

संहिता

उद॒सौ सूर्यो॑ अगा॒दुद॒यं मा॑म॒को भगः॑ ।
अ॒हं तद्वि॑द्व॒ला पति॑म॒भ्य॑साक्षि विषास॒हिः ॥

पदपाठः

उत् । अ॒सौ । सूर्यः॑ । अ॒गा॒त् । उत् । अ॒यम् । मा॒म॒कः । भगः॑ ।
अ॒हम् । तत् । वि॒द्व॒ला । पति॑म् । अ॒भि । अ॒सा॒क्षि॒ । वि॒ऽस॒स॒हिः ॥

सायणभाष्यम्

उदासाविति षडृचमष्टमं सूक्तमानुष्टुभम्। पुलोमतनया शची स्वात्मानमनेनास्तौत्। अतः सैवर्षिः सैव देवता। तथा चानुक्रान्तम्। उदसौ षट् पौलोमी शच्यात्मानं तुष्टावानुष्तुभमिति। विनियोगो लिङ्गादवगन्तव्यः। आपस्तम्बस्तु सपत्नीनाशने सूर्योपस्थान इदं सूक्तं विनियुक्तवान्। सूत्र्यते हि। एतेनैव कामेनोत्तरेणानुवाकेन सदादित्यमुपतिष्ठते। आप. गृ. ९-९। इति। अत्रैतेनेति प्रकृतं सपत्नीबाधनं परामृश्यते॥

असौ द्युलोकस्थः सूर्य उदगात्। उदयं प्राप्तवान्। मामको मदीयो भगो भजनीयोऽयमिन्द्रश्च सूर्यात्मनोदगात्। यद्वा। मामको भगो मदीयमिदं सौफाग्यमुदगात्। तदुद्यतं सूर्यस्य तेजो विद्वला ज्ञातवती यद्वा पतिं भर्तारं विद्वला लब्धवत्यहं विषासहिर्विशेषेणाभिभवित्री सत्यभ्यसाक्षि। अभ्यभूवम्। सपत्नीरिति शेषः। सहतेरभिभवार्थस्य लुङ्येतद्रूपम्। यद्वा। विषासहिः सपत्नीनामभिभवित्री सति पतिमभ्यसाक्षि। भर्तारमप्यभूवम्। यथा मय्येव वशीकृतश्चिरं वर्तते तथाकार्षमित्यर्थः॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७