मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५९, ऋक् ३

संहिता

मम॑ पु॒त्राः श॑त्रु॒हणोऽथो॑ मे दुहि॒ता वि॒राट् ।
उ॒ताहम॑स्मि संज॒या पत्यौ॑ मे॒ श्लोक॑ उत्त॒मः ॥

पदपाठः

मम॑ । पु॒त्राः । श॒त्रु॒ऽहनः॑ । अथो॒ इति॑ । मे॒ । दु॒हि॒ता । वि॒राट् ।
उ॒त । अ॒हम् । अ॒स्मि॒ । स॒म्ऽज॒या । पत्यौ॑ । मे॒ । श्लोकः॑ । उ॒त्ऽत॒मः ॥

सायणभाष्यम्

ममैव पुत्रास्तनयाः शत्रुहनः शत्रूणां सपत्नानां हन्तारो भवन्ति। अथो अपि च मे मदीया दुहिता पुत्री विराड्विशेशेण राजमाना भवति। उतापि चाहं सञ्जया सम्यग्जेत्री सपत्नीनामस्मि। ता अभिभवामि। अतो हेतोः पतौ भर्तरीन्द्रे मे मम श्लोक उपश्लोकनीयं यश उत्तम उद्गततममतिशयेनोत्कृष्टं विद्यते॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७