मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५९, ऋक् ५

संहिता

अ॒स॒प॒त्ना स॑पत्न॒घ्नी जय॑न्त्यभि॒भूव॑री ।
आवृ॑क्षम॒न्यासां॒ वर्चो॒ राधो॒ अस्थे॑यसामिव ॥

पदपाठः

अ॒स॒प॒त्ना । स॒प॒त्न॒ऽघ्नी । जय॑न्ती । अ॒भि॒ऽभूव॑री ।
आ । अ॒वृ॒क्ष॒म् । अ॒न्यासा॑म् । वर्चः॑ । राधः॑ । अस्थे॑यसाम्ऽइव ॥

सायणभाष्यम्

असपत्नाशत्रुका भवामि। कुत इत्यत आह। सपत्नघ्नी शत्रूणां हन्त्री अत एव जयन्ती जयं प्राप्नुवत्यभिभूवर्यभिभवित्री। भवतेरन्येभ्योऽपि द्रुश्यन्त इति क्वनिप्। वनो र चेति ङीब्रेफौ। ईदृश्यहमन्यासाम् सपत्नीनां वर्चस्तेजो राधो धनं चावृक्षम्। अवृश्चिषम्। अच्छिदम्। व्रश्चेर्लुङ्यूदित्त्वादिडभावे स्स्ंयोगादिलोपे छान्दसं सम्प्रसारनम्। तत्र दृष्टान्तः। अस्थेयसामिवास्थिरतरानां शत्रूणां यथा धनमप्रयत्नेन व्रुश्च्यते तथेत्यर्थः। स्थिरशब्दादीयसुनिप्रियस्थिरेत्यादिना स्थादेशः॥५॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७