मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५९, ऋक् ६

संहिता

सम॑जैषमि॒मा अ॒हं स॒पत्नी॑रभि॒भूव॑री ।
यथा॒हम॒स्य वी॒रस्य॑ वि॒राजा॑नि॒ जन॑स्य च ॥

पदपाठः

सम् । अ॒जै॒ष॒म् । इ॒माः । अ॒हम् । स॒ऽपत्नीः॑ । अ॒भि॒ऽभूव॑री ।
यथा॑ । अ॒हम् । अ॒स्य । वी॒रस्य॑ । वि॒ऽराजा॑नि । जन॑स्य । च॒ ॥

सायणभाष्यम्

अबिभूवर्यभिभवित्र्यहमिमाः सपत्नीः समजैषम्। सम्यगभ्यभूवम्। यथा येन प्रकारेनाहमस्य वीरस्येन्द्रस्य तदीयपरिजनस्य च विराजानि विशेषेन राजमाना भवानि। तथा समजैषमित्यर्थः॥६॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७