मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६०, ऋक् ३

संहिता

य उ॑श॒ता मन॑सा॒ सोम॑मस्मै सर्वहृ॒दा दे॒वका॑मः सु॒नोति॑ ।
न गा इन्द्र॒स्तस्य॒ परा॑ ददाति प्रश॒स्तमिच्चारु॑मस्मै कृणोति ॥

पदपाठः

यः । उ॒श॒ता । मन॑सा । सोम॑म् । अ॒स्मै॒ । स॒र्व॒ऽहृ॒दा । दे॒वऽका॑मः । सु॒नोति॑ ।
न । गाः । इन्द्रः॑ । तस्य॑ । परा॑ । द॒दा॒ति॒ । प्र॒ऽश॒स्तम् । इत् । चारु॑म् । अ॒स्मै॒ । कृ॒णो॒ति॒ ॥

सायणभाष्यम्

य उशता कामयमानेन सर्वहृदा। सर्वमविकलं हृदयं यस्य। यद्वा। सर्वेषामृत्विजां हृदयेन। सामर्थ्यान्मत्वर्थो लक्ष्यते। हृदयवता मनसास्मा इन्द्राय देवकामो देवमिन्द्रं कामयमानो यजमान सोमं सुनोति अभिषुणोति। इन्द्रस्तस्य यजमानस्य गा न परा ददाति। परादानं विनाशः। नि विनाशयति। अस्मै यजमानाय चारुं शोभनं अत एव प्रशस्तम् । इदित्यवधारणे। ज्प्रशंसनीयमेव धनं कृणोति। करोति॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८