मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६१, ऋक् ३

संहिता

स॒ह॒स्रा॒क्षेण॑ श॒तशा॑रदेन श॒तायु॑षा ह॒विषाहा॑र्षमेनम् ।
श॒तं यथे॒मं श॒रदो॒ नया॒तीन्द्रो॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ॥

पदपाठः

स॒ह॒स्र॒ऽअ॒क्षेण॑ । श॒तऽशा॑रदेन । श॒तऽआ॑युषा । ह॒विषा॑ । आ । अ॒हा॒र्ष॒म् । ए॒न॒म् ।
श॒तम् । यथा॑ । इ॒मम् । श॒रदः॑ । नया॑ति । इन्द्रः॑ । विश्व॑स्य । दुः॒ऽइ॒तस्य॑ । पा॒रम् ॥

सायणभाष्यम्

सहस्रमिति बहुनाम। सहस्रमक्षीणि चक्षूंषि यस्य हविषः फलत्वेन विद्यन्ते तत्सहस्राक्षम्। बहुव्रीहौ सत्थ्यक्ष्णॊरिति षट् समासान्तः। शरदः सम्बन्धी शारदः संवत्सरः। शतं शारदा यस्य तत्तथोक्तम्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। अत एव शतायुषा शतसंवत्सरपरिमितमायुर्जीवनं फलभूतं यस्य तादृशेन हविषा। यद्वा। सहस्राक्ष इन्द्रः । तेन शतशारदेन शरदाम् संवत्सराणां शतस्य दातृत्वेन सम्बन्धिना कर्त्रा शतायुषा हविषा करनभूतेन एनं यक्ष्मगृहीतमाहार्षम्। रोगादनैषम्। यथा येन प्रकारेणेमं पुरुषं शतं शरदः सम्वत्सरान्। अत्यन्तसंयोगे द्वितीया। एतावन्तम् कालमिन्द्रो विश्वस्य सर्वस्य दुरितस्य दुःख्हस्य पारमवसानं दुःखराहित्यं नयति नयेत् तथाहार्षमित्यर्थः॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९